________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / मेष रनमुद्दालयिष्यति / म चात्र पुरे तिष्ठतो ममास्त्यस्मान्मोक्षः / अतः पतामि निर्देश इति। तत: पलायितोऽहं वेगेन। क्रान्तो बहुविषयं। ऊढस्त्रीणि रात्रिदिनानि / गतोऽष्टाविंशति-जनानि / छोटितो रवग्रन्थिः / दृष्टो निष्ठरपाषाणः / ततो हा हतो ऽस्मौति गतो मूळीं / लब्धा कृच्छ्रण चेतमा / ग्टहीतः पश्चात्तापेन प्रारब्धः प्रलयितुं भ्रष्टोऽहं / कथंचित्ततः स्थानात् तत्पुनर्सलामौत्यभिप्रायेण वलितः स्वदेशाभिमुखं / ___ दूतश्च जिनसदनाविनतेन न दृष्टोऽहं विमलेन / ततः संजाता विमलस्य चिन्ता क पुनर्गतो वामदेव इति। गवेषितः सर्वत्र कानने न चोपलब्धः। ततो भवने पुरे च सर्वत्र गवेषितो यावत्तत्रापि न दृष्टः ततः सर्वदिक्षु प्रहिता ममान्वेषकपुरुषाः / प्राप्तोऽहमेकीतस्तेभ्यः / अभिहितस्तैः। यथा वामदेव शोकार्तस्ववियोगेन विमलो वर्तते वयमानेतारस्तवानेन प्रहितास्तेन गम्यतामिति / ततो मया चिन्तितं। अये न लक्षितोऽहं विमलेन / ततो विगतं मे भयं / नौतोऽहं तैर्विमलममोपे। दृष्टो विमलेन ममालिङ्गितः स्नेहेन। मुक्तमुभाभ्यां नयनैर्विमलमलिलं किं तु मया कपटेन प्रियमौलकमुदा विमलेन / निवेशितोऽहमर्धामने अभिहितश्चानेन / वयस्य वामदेव वर्णय किमनुभूतं भवता / मयोकं / कुमाराकर्णय / अस्ति तावप्रविष्टस्त्वं जिनमन्दिरे / ततो यावत्तत्र किलाहमपि प्रविशामि तावदृष्टा मया वर्णमागच्छन्ती गगनतलेऽम्बरचरौ। मा च कीदृशौ / प्रकाशयन्तौ दिक्चक्रं रूपलावण्यशालिनी / प्राकष्टकरवाला च यमजिहेव भौषणा | For Private and Personal Use Only