________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 766 उपमितिभवप्रपञ्चा कथा / पाषाणीभूतमिति / एवं च विचिन्य मया निखातस्तत्प्रमाणाः कर्पटावगुण्ठितस्तत्र प्रदेश पाषाणा: / समागतो ग्रहं / लवितं तद्दिनं / समायाता रजनौ। स्थितोऽहं पर्यङ्के। समुत्पन्ना मे चिन्ता / अये विरूपकं मया कृतं यनानौतं तद्रन / दृष्टः केनचिदहं तथा कुर्वाणः / ग्रहोंव्यति कश्चिदन्यस्तद्रत्न / तदधुना किं करोमौति / वितर्ककल्लोलमालाकुलितचित्तवृत्तेश्चित्तसन्तापेन विनिद्रस्यैवातीता सर्वापि शर्वरी। प्रभाते च समुत्थायातित्वरितं गतोऽहं पुनस्तं प्रदेशं / दूतश्च समागतो मद्भवने विमलः / न दृष्टोऽहमनेन। पृष्टो मत्परिजनः क्व वामदेव इति। कथितमनेन यथा क्रीडानन्दनोद्यानाभिमुखं गत इति / ततः समागतो ममानुमार्गण विमलः / स चागच्छन् दूरे दृष्टो मया / ततः संजाता ममाकुलता / विस्मृतो रत्नप्रदेशः। समुत्खातः पाषाणो गोपितः कटौपयां। कृती निरुपलक्षः म प्रदेशः। गतोऽहमन्यत्र गहनान्तरे / संप्राप्तो विमलः / दृष्टोऽहमनेन / लक्षितो भयतरललोचनः / ततोऽभिहितमनेन / वयस्य वामदेव किमेकाको त्वमिहागतः। किं वा भौतोऽमि / मयोकं / श्रुतः प्रभाते मया त्वमिहागतः। तेनाहमप्यागतः / ततो न दृष्टस्लमत्र / तेन संजातो मम हृदये त्रामः क्व कुमारो गत इति चिन्तया। माम्प्रतं तु त्वयि दृष्टे यदि परं स्वस्थौभविष्यामौति / विमलेनोक्तं / यद्येवं ततः सुन्दरमिदं संपन्नं यदिहागतौ। माम्प्रतं गच्छावो भगवद्भवने / मयोतमेवं भवतु / ततो गतौ जिनमन्दिरे। प्रविष्टोऽभ्यन्तरे विमलः / स्थितोऽहं द्वारदेशे। चिन्तितं मया / नूनं विज्ञातमनेन। ततो नश्यामि त्वरितं। दूतरथा ममेद For Private and Personal Use Only