________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 062 उपमितिभवप्रपश्चा कथा / मेतेषां भगवतां मुसाधूनां / प्राप्तलब्धयो ह्येते सर्वस्य करणपटवो भवन्ति / अतोऽयं मुनिसत्तमः पूर्वं तथा कुरूपो मया दृष्टोऽधुना पुनरेवंविधरूपधारी दृश्यते / तबूनं प्राप्तलधिरेष भगवानित्य हो भगवतोऽतिशयः / ततः प्रष्टचेतमा वन्दितो मया भगवानन्यमुनयश्च / अभिनन्दितोऽहं सर्वैः स्वर्गापवर्गमार्गसंसर्गनिसर्ग हेतुना धर्मलाभेन। निविष्टो भूतले / श्रुता चामृतकल्या आक्षेपकारिणौ भव्यचित्तानां विक्षेपजननौ विषयविषाभिलाषस्य अभिलाषोत्पादनौ शिवसुखे निर्वेदसम्पादनी भवप्रपञ्चे बाधनी विमार्गस्य भगवती धर्मदेशना / रन्जितोऽहं तस्य गुणप्राम्भारेण / पृष्टश्च निकटोपविष्टः शनैरेको मुनिया। यदुत कोऽयं भगवान् किनामा कुत्रत्यो वेति। तेनोकं / सूरिरष गुरुरस्माकं बुधो नाम / स धरातलपुरवास्तव्यस्तदधिपतेरेव शुभविपाकनृपतेस्तनयो निजमाधुतानन्दनस्तुणवदपहाय राज्यं निष्क्रान्तः साम्प्रतमनियतविहारेण विहरतौति। ततोऽहमाकर्ण्य तच्चरितं दृष्ट्वा तदतिशयं निरीक्ष्य रूपं श्रुत्वा धर्मदेशनाकौशलं मंचिन्त्य च हृदये यथाहो रत्नाकरकल्पमिदं भगवतां दर्शनं यत्रैवं विधानि पुरुषरत्नान्युपलभ्यन्ते ततः संजातो भगवदर्हत्प्रणीते मार्ग मेरुशिखरवनिष्पकम्पः / स्थिरौभूतश्च धर्म तेनैव बुधसूरिदर्शनेन मदौयः सोऽपि परिकरः / ततोऽभिवन्द्य भगवन्तं गतोऽहं स्वस्थानं। भगवानपि कचिदन्यत्र विहरतौति। तेनाहं ब्रवीमि। यद्यसौ बुधसूरिरागच्छेत्ततस्ते बन्धुवर्ग बोधयति। परोपकारकरणैकव्यसनौ हि स भगवान् / यतस्तदापि मम मत्परिकरस्य च मद्धर्म स्थैर्यार्थं विहितं तेन तत्तादृशं For Private and Personal Use Only