________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 760 उपमितिभवप्रपञ्चा कथा / मन्दोहेण लोचनयुगलं। संपन्नं कदम्बकुतुनमनिभं रहदानन्दविशदपुलकोद्भेदसुन्दरं मे शरीरं। पठिती भावार्थानुस्मरणगर्भ भक्निनिर्भरतया शक्रस्तवः / कृतः पञ्चाङ्गप्रणिपातः। निषलो भूतले। स्तुतः सर्वज्ञप्रणीतप्रवचनोन्नतिकरै-गमुद्रया प्रधानस्तोत्रैर्भावमारं भगवान् / रञ्जितं भगवगुणैरन्तःकरणं / विहितो भूयः पञ्चाङ्गप्रणिपातः। तदवस्येनैव वन्दिताः प्रमोदद्धिजनकाः सूरिप्रभृतयः / ममुत्थिता जिनमुद्रया। संपादितं चैत्यवन्दनं / तदन्ते कृतं प्रणिधानं मुक्ताशुक्रिमुद्रया॥ अत्रान्तरे मत्परिवारेण निर्वतित भगवता बलिविधानं मज्जौकृतं स्नात्रोपकरणं विस्तारिता विचित्रवस्त्रासकारोलोचाः। प्रारब्धं मङ्गीतक। समापूरिताः कलकाहलाः / चालिताः सुघोषघण्टाः / राणितानि कणकणकमाणकानि / ध्वानिता दिव्यदुन्दुभयः / नादिता मधुर शङ्खाः / वादिताः पटुपटहाः / श्रास्फालिता घर्घरिकया मृदङ्गाः। समुच्छलितानि क्रमालकानि। विजम्भितः स्तोचरवः। प्रवर्तितो मन्त्रजापः। विमुक्त कुसुमवर्षं / झणझणायिता मधुपावली / अभिषेचितं महाईरमगन्धौषधिसत्तीर्थादकैर्विधिना जगज्जीवबन्धोर्भगवता विम्बं / प्रवृत्ता मन्धरं चूतमञ्जरी। विलसितमुद्दामानन्दोचितं शेषविलासिनोजनेन / दत्तानि महादानानि। कृतमुचितकरणौयं // एवं महता विमर्दैन विधाय भगवदभिषेकपूजनं निर्गताऽहं साधुवन्दनार्थं यावत्तथैव तस्य सुसाधुवृन्दस्य मध्ये स्थितः स तपस्वी निविष्टः कनककमले रतिविरहित व मकरकेतनो रोहिणीवियोजित व मृगलाञ्छनः शचौविनाकृत दूव पुरन्दरः उत्तमकार्तवरभास्वरेणाकारेण उल्लमन्महाप्रभाप्रवाह For Private and Personal Use Only