________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 75 उपमितिभवप्रपञ्चा कथा / कार्यः माधर्मिकस्येह विनयो वन्दनादिकः / / किं पुनस्ते महाभाग नैवं मद्धर्मदायिनः / युज्यते विनयः क निर्मिथ्यस्थापि मगुरोः // रत्नचूडेनोकं / मा मैवमादिशतु कुमारः। तथाहि / गुणप्रकर्षरूपस्त्वं पूजनीयः सुरैरपि / त्वमेव गरुरस्माकं तवं वक्तमईसि // विमलेनोक्तं / गुणप्रकर्षरूपाणां कृतज्ञानां महात्मनाम् / इदमेव स्फुटं लिङ्गं यहुरोभक्तिपूजनम् / / स महात्मा स पुण्यात्मा स धन्यः म कुलोद्गतः / स धौरः म जगद्वन्द्यः म तपस्वी म पण्डितः / यः किङ्करत्वं प्रेष्यत्वं कर्मकारलमञ्जसा / दासत्वमपि कुर्वाण: सगुरूणां न लज्जते / म कायः लाघितः पुंसां यो गुरोविनयोद्यतः / मा वाणी या गरोः स्तोत्री तन्मनो यहुरौ रतम् // अनेकभवकोटौभिरुपकारपरैरपि / धर्मापकारकर्तृणां निक्रयो न विधीयते // अन्यच्चेदमधुना पर्यालोच्यं भवता माधं मया। यदुत विरक्तं तावन्मे भवचारकवाभाच्चित्तं ग्टहौता दुःखात्मकतया विषयाः भाविता लोकोत्तरायाताखादरूपतया प्रशमः / न स्यातव्यमधना ग्रहपञ्जरे। ग्रहीतव्या भागवती दौथा। केवलं सन्ति मे तातप्रभृतयो बहवो बान्धवाः। तेषां का प्रतिबोधनोपायः स्यात् / For Private and Personal Use Only