SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। चिन्तामणिसमे रत्ने लधे मध्यस्थतां गतः / न लक्षिता मया धौर हर्षदोषकलङ्कितः // अधुनैवं पुनर्धन्यः स्फुटरोमाञ्चसुन्दरः / सन्मार्गलाभे तुष्टोऽसि माधु माधु नरोत्तम // केवलमत्र जने नैवमतिगुरूत्वमारोपणीयं कुमारेण / किमत्र मया विहितं कुमारस्य / निमित्तमात्र अत्र संपन्नोऽहं / स्वयमेव योग्योऽसि त्वमेवंविधकल्याणपरम्परायाः। मयापि हि तावकौनां पात्रतामुपलक्ष्यायं विहितो यत्नः / तथाहि / स्वयंविज्ञातमद्भावा लोकान्तिकसरैस्तदा / यदि नाम प्रबोध्यन्ते तीर्थनाथाः कथंचन // तथापि ते सुरास्तेषां न भवन्ति महात्मनाम् / गुरवस्तादृशे पक्षे द्रष्टव्योऽयं त्वया जनः // विमलेनोक्तं / महात्मन्मा मैवं वोचः / न मदृशमिदमस्योदितं भवता / नहि भगवति बोधयितव्ये लोकान्तिकसुराणां निमित्तभावः / भवता तु दर्शयता भगवहिम्बं संपादितमेव ममेदं सकलं कल्याणं / इह च / निमित्तमात्रतां योऽपि धर्म सर्वज्ञभाषिते / प्रतिपद्येत जीवस्य स गुरुः पारमार्थिकः // एवं मे विदधानस्वं गुरुरेव न संशयः / उचितं तु मतां कत मद्गुरोविनयादिकम् // तस्मादुचितमेवेदं सर्वं तावकोपकारस्येति / किं च / एषा भगवतामाज्ञा मामान्यस्यापि सुन्दरम् / For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy