________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 756 उपमितिभवप्रपञ्चा कथा / यतः / मत्कलचे सुते राज्ये द्रविणे रत्नसञ्चये / अवाप्ते स्वर्गसौख्ये च नैव तोषो महात्मनाम् // तथाहि / तुच्छानि स्वल्पकालानि सर्वाणि परमार्थतः / एतानि तेन धौराणां नैव तोषस्य कारणम् // जैनेन्द्रं पुनरासाद्य मार्ग भौमे भवोदधौ / सुदुर्लभं महात्मानो जायन्ते हर्षनिर्भराः // तथाहि / संप्राप्तस्तत्क्षणादेव मार्गः सर्वज्ञभाषितः / शमसातामृताखादसंवेदनकरो नृणाम् // अनन्तानन्दसंपूर्णमोक्षहेतश्च निश्चितः / अतः सतां कथं नाम न हर्षोल्लासकारणम् // मत्त्वानुरूपं वाञ्छन्ति फलं सर्वेऽपि जन्तवः / श्वा हि तथ्यति पिण्डेन गजघातेन केसरी // मूषको बौहिमासाद्य नृत्यत्युत्तालहस्तकः / गजेन्द्रोऽवज्ञया मुंके यत्नदत्तं सुभोजनम् // तथा / अदृष्टतत्त्वा ये मूढाः स्तोकचित्ता मनुष्यकाः / धनराज्यादिकं प्राप्य जायन्ते ते मदोत्कटाः // त्वं तु पूर्व For Private and Personal Use Only