________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। उतमञ्जरी हरणीयेति। एतदाकर्ण्य देवः प्रमाणं / ततो मया चिन्तितं / कोऽहं सविद्ययोरपि तयोनिराकरणे। केवलं न मारयितव्यौ मादथ्वसुः पुत्रौ तौ तावदचलचपली मया धर्मक्षतिभयाल्लोकापवादभयाञ्च / दुष्टशीलश्चासौ चपलः / ततश्छलेन हत्वा यद्येनां चूतमञ्जरौं विनाशयिष्यति ततो मे ग्टहतो मुञ्चतश्चनां लाघवं संपत्स्यते / न चान्योऽस्ति मे महायो यो युध्यमानस्य मे चूतमन्नरौं रक्षति / तस्मादत्रावसरे ममापक्रमणं श्रेयः। ततो ग्टहीत्वा चूतमञ्जरीमपक्रान्तोऽहं। दृष्टपूर्वं च मयेदं बहुशः क्रीडानन्दनमुद्यानं / ततोऽत्र समागत्य स्थितो लताग्रहके यावदनुमार्गेणैव मे समागतौ तावचलचपलौ। समाइतश्चाहं गगनवर्तिनैव मतिरस्कारं सस्पधे निष्ठुरमचलेन / ततस्तद्वचनमाकर्णयतो मे हृदयं कीदृशं संपन्न / इतः प्रियतमास्नेहतन्तुभिर्बन्धकौलितम् / दूतश्च शत्रुदुर्वाक्यैः सङ्ग्रामरसभासुरम् // न तिष्ठति न वा याति मूढं कर्तव्यताकुलम् / डोलारूढमिवाभाति क्षणं मे हृदयं तदा // तथापि गाढामर्षवशेन समुत्पतितोऽहं तदभिमुखं / लममायोधनं। दृष्टं च तत्यायो युभाभिः / यावत्रष्टोऽचलो गतोऽहं तदनुमार्गेण / यावत्प्राप्तोऽसौ मया उत्तेजितः परुषवचनैः वलितो मदभिमुखं / पुनर्लनमायोधनं / ततो मया दत्त्वा बन्धमास्फोटितोऽसावचलो गगनस्थेनैव भूतले। ततस्तस्य चूर्णितान्यङ्गोपाङ्गानि विगलितं पौरुषं संजातं दैन्यं न वहन्ति विद्या निष्पन्दं शरीरं / For Private and Personal Use Only