________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 741 तच किं यादृशं जातं तादृगेवावतिष्ठते / किं वा कथंचिदर्धत नराणामिह जन्मनि / / विमलेनोक्त। मन्ति संवर्धनोपायाः सत्त्वस्यात्रैव जन्मनि / ते मे ज्ञानविज्ञानधैर्यस्मृतिममाधयः // ब्रह्मचर्य दया दानं निःस्पृहत्वस्मृतं तपः / औदासीन्यं च सर्वत्र सत्त्वसंशद्धिहेतवः // एतैरविमलं मत्त्वं शड्यूपायैर्विशुध्यति / मृज्यमान वादर्णः क्षारचेलकरादिभिः / यतः / भावस्नेहं निराकृत्य रूक्षयन्ति न संशयः / भावा एतेऽन्तरात्मानं सेव्यमानाः पुनः पुनः // रूक्षीभूतात्पतत्यस्मादात्मनो मलसञ्चयः / ततः शुद्धा भवेल्लेण्या सा च मत्त्वमिहोच्यते // शद्धे च सत्त्वे कुर्वन्ति लक्षणनि बहिर्गुणम् / अपलक्षणदोषाश्च जायन्ते नैव बाधकाः / / तदेवं भद्र विद्यन्ते ते भावा यैर्विवर्धते / समस्तगुणमम्भाराधारं तत्सत्त्वमुत्तमम् // एवं च वदति विमले मया भद्रे न विज्ञातो भावार्थस्तत्र कश्चन / तथापि भगिनीदोषात्तं प्रतीदं प्रजल्पितम् // कुमार माधु साधूनं नष्टो मे संशयोऽधुना / For Private and Personal Use Only