________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / रका जिहा भवेद्धन्या पाणिपादतलानि च / पृथुलाः पाणिपादास्तु धन्यानां दीर्घजीविनाम् // स्निग्धदन्तः शुभाहारः सुभगः स्निग्धलोचनः / नरोऽतिदौ| हुस्खश्च स्थूलः कृष्णश्च निन्दितः // वचि रोमसु दन्तेषु जिहायां चिहुरेषु च / नेत्रयोश्चातिरूक्षा ये ते न धन्याः प्रकीर्तिताः // पञ्चभिः शतमुद्दिष्टं चतुर्भिर्नवतिस्तथा / त्रिभिः षष्टिः समुद्दिष्टा लेखाकै लवर्तिभिः // चत्वारिंशत्पुनः प्रोन वर्षाणि नरजीवितम् / ताभ्यां दाभ्यां तथैकेन त्रिंशद्वर्षाणि सुन्दर // किं च / अस्थिवर्थाः सुखं मांसे त्वचि भोगाः स्त्रियोऽक्षिषु / गतो यानं खरे चाज्ञा सर्व मत्त्वे प्रतिष्ठितम् // गतेर्धन्यतरो वर्ण वर्णद्धन्यतरः स्वरः / खराद्धन्यतरं सत्त्वं सर्वं सत्त्वे प्रतिष्ठितम् // यथा वर्णस्तथा रूपं यथा रूपं तथा मनः। यथा मनस्तथा सत्त्वं यथा सत्त्वं तथा गुणाः // तदिदं ते समासेन वर्णितं नरलक्षणम् / अधना योषितां भद्र लक्षणं मे निशामय // मयोक्त। कुमार भवता तावदाधारमिह कीर्तितम् / सर्वस्य लक्षणस्यास्य सत्त्वमत्यन्तनिर्मलम् / For Private and Personal Use Only