________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रयचा कथा / स तदा तादृशः हस्तव तात मया सह / ते तादृशाः समुल्लापाः मा च मैत्री मनोहरा // तथापि। न त्वं प्रत्यभिजानौषे दृष्टमप्यधुना जनम् / महत्तरमतोऽपि स्यात्किं शोकभरकारणम् // तदेष मन्दभाग्योऽहं भवता परिवर्जितः / क यामि क च तिष्ठामि संजातश्चिन्तयातरः // मयोक्तं न स्मरामौमं वृत्तान्तं भद्र भावतः। तथापि हृदये मेऽस्ति यथा त्वं चिरसंगतः // यतः। दृष्टिम शौतलीभूता चित्तमानन्दपूरितम् / वयि भद्र मृषावादे जाते दर्शनगोचरे // नूनं जातिस्मरा मन्ये दृष्टिरेषा शरीरिणाम् / प्रिये हि विकसत्येषा दृष्टे दन्दह्यते ऽप्रिये // तस्मादत्र न कर्तव्यः शोको भद्रेण वस्तुनि / वयस्यः प्राणतुल्यस्त्वं ब्रूहि यत्ते प्रयोजनम् // तेनोक्रमियदेवात्र मम तात प्रयोजनम् / यदेषात्मीयभगिनी दर्शिता तेऽतिवत्सला // मायेति सुप्रसिद्धवापि जनैश्चरितरञ्जितैः / इयं बहुलिका तात प्रियनामाभिधीयते // तदेनया समं तात वर्तितव्यं यथा मया / अहं तिरोभविष्यामि नास्ति मेऽवसरोऽधुना / For Private and Personal Use Only