________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। किं तु। यत्रेयमास्ते तबाहं स्थित एवेह तत्त्वतः / परस्परानु विद्धं हि वरूपमिदमावयोः // अयं तु पुरुषस्तात कनिष्ठो मे महोदरः / युक्रस्ते मित्रभावस्य तेन मंदर्भितो मया // स्तेयनामा महावीर्यस्तिरोभूतः स्थितः पुरा। प्रस्तावमधुना ज्ञात्वा मोऽयं तात समागतः // तदेषोऽपि त्वया नित्यं यथाहमवलोकितः / तथैव स्नेहभावेन द्रष्टव्यः प्रियबान्धवः // मयो। येयं ते भगिनी भट्र मा ममापि न संशयः / यस्ते सहोदरो भ्राता स ममाप्येष बान्धवः // तेनोक्त। अहो महाप्रसादो मे विहितो मदनुग्रहः / संजातः कृतकृत्योऽहमेवं सति नरोत्तम // इत्युक्त्वा स मृषावादस्तिरोभावमुपागतः / ततो मे हृदि संजातो वितर्कः स च कीदृशः // अहो मे धन्यता नूनं संपन्न जन्मनः फलम् / भगिनी भ्रातरौ यस्य समापन्नौ ममेदृशौ // ततो विलप्ततस्ताभ्यां साधं मे मनमौदृशः / जाता वितर्ककल्लोला भने विभ्रान्तचेतसः // वञ्चयामि जगत्मवं नानारूपैः प्रतारणैः / For Private and Personal Use Only