________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः / 726 बहिरङ्गे गतस्तात कदाचित्त्वं सभार्यकः / नरवाहनराजस्य भवने वं तदा स्थितः / / दिनानि कतिचिनाम्ना प्रसिद्धो रिपुदारणः / संसारिजीव इत्येतत्तात ते नामपूर्वकम् / वामके वामके नाम जायते चापरापरम् // ततस्तत्र स्थितेनाहं भवता वरलोचन / वयस्य प्रत्यभिज्ञातो मृषावाद इति स्फुटम् // ततस्तत्र मया माधं ललितोऽसि वरानन / संजाता च परा प्रोतिर्मदीयज्ञानकोशले // पृष्टश्चाहं त्वया तोषाद्यथेदं तव कौशलम् / जातं कम्य प्रसादेन ममानन्दविधायकम् // मयोनं प्रतिपन्नास्ति भगिनी मे महत्तमा / मूढतानन्दिनी माया रागकेसरिणोऽङ्गजा // इदं तस्याः प्रमादेन संजातं मम कौशलम् / सा हि संनिहिता नित्यं मम मातेव वत्सला // यत्र यत्र स्मृषावादस्तत्र तत्रेह मायया / भवितव्यमिति प्रायो विज्ञातं बालकैरपि // त्वयोक्तं दर्शनीयेति सात्मीया भगिनी मम / मयापि प्रतिपन्नं तत्तावकीनं वचस्तदा // नतस्तद्वचनं तात स्मरन्चेषोऽहमागतः / भगिनौं पुरतः कृत्वा दर्शयामौति ते किल / यावता। 92 For Private and Personal Use Only