________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 727 उपमितिभवप्रपञ्चा कथा। मत्समौपे समायातं किं वाश्रित्य प्रयोजनम् // अथैकस्तत्र मां गाढं बलादालिंग्य मानवः / निपत्य पादयोस्तेषां ततश्चेत्थमभाषत // मित्र प्रत्यभिजानौषे किं मां किं नेति वा पुनः / मयोत नेति तच्छ्रुत्वा स जातः शोकविहलः // मयोत तात किं जातस्वमेवं शोकविहसः / तेनोक्त चिरदृष्टोऽपि यतोऽहं विस्मृतस्तव // मयोक कुत्र दृष्टोऽसि वं मया वरलोचन / तेनोक्त कथयाम्येष समाकर्णय माम्प्रतम् // पुरेऽसंव्यवहारे त्वमामौर्वास्तव्यकः पुरा / तत्रासन्मादृशास्तात बहवस्ते वयस्यकाः // केवलं तत्र नाभूवमहमद्यापि ते मखा / अन्यदा निर्गतोऽसि त्वं ततो भ्रमणकाम्यया // ततश्चैकाक्षवासे त्वं विकलासपुरे भ्रमन् / पञ्चाक्षपसंस्थाने कदाचित्पुनरागतः // तत्र ये गर्भजाः सन्ति संजिनः कुलपुत्रकाः / अन्यस्थानानि पर्यव्य तेषु प्राप्तोऽसि सुन्दर / अथ तत्र स्थितस्यायं जातस्तव वयस्यकः / तिरोभूतपरत्वेन न सम्यग् लचितस्वया // ततो भ्रमणशीलत्वात्तातानन्तेषु धामसु / अनन्तवारा धान्तोऽसि सह खौयमहेलया // कुतूहलवनाथ पुरे सिद्धार्थनामके / For Private and Personal Use Only