________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। 727 धिया सरगुरु धौरो यो विजिग्ये गतस्मयः // तस्थानुरूपा गौलाढ्या लावण्यामृतशालिनी / भर्दभकाभवद्भार्या नाना कनकसुन्दरौ / ततोऽहं गुडिकादानाद्भवितव्यतया तया / तस्याः प्रवेशितः कुक्षौ भने पुण्योदयान्वितः // अथ संपूर्णकालेन प्रविभक्तशरीरकः / स्थितश्चाई बहिोंने रङ्गमध्ये यथा नटः // ततः किल प्रसूताहं जातो मे पुत्रकोऽनघः / इति भावनया चित्ते जनन्या प्रविलोकितः // मोऽपि पुण्योदयो जातः केवलं नेक्षितस्तया / जनदृष्ट्या न दृश्यन्ते तेऽन्तरङ्गजना यतः // ज्ञातोऽहं सोमदेवेन परिवारनिवेदितः / ततश्च का रितस्तेन सुतजन्ममहोत्सवः // दत्तानि भूरिदानानि पूजिता गुरुसंहतिः / प्रनृत्ता बान्धवाः सर्वे वादितानेकमर्दलाः // अथातीतेऽतितोषेण द्वादशाहे च मोत्मवम् / ततो मे विहितं नाम वामदेव इति स्फुटम् // ततः संवर्धमानोऽहमत्यन्तसुखलाखितः / यावने समापन्नो व्यकचैतन्यसंगतः // तावदृष्टौ मया भद्रे कृष्णाकारधरौ नरौ / तयोश्च निकटे वक्रा नारौ वलितदेहिका // चिन्तितं च मया हन्त किमिदं मानुषचयम् / For Private and Personal Use Only