________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रखावः। ततोऽहमुन्मादवभेन जौवितभयेन च दैन्यमुररीकृत्य नाटितोऽनेकधा पतितोऽन्यजानामपि चरणेषु संभातश्चावस्तुभूतः // तपननरेन्द्रेण तु मदीय एव कनिष्ठो भ्राता कुलभूषणो नामाभिषेचितः सिद्धार्थपुरे राज्ये / ततो भद्रग्टहीतसङ्केते तथा तैर्गाढपार्णिप्रहारैर्जरितशरीरस्य मे निपतितमुदरे रक संजातः सन्तापातिरेकः // ततो जीर्ण मे मैकभववेद्या गुडिका। दत्ता च ममान्या गडिका भवितव्यतया। तन्माहाम्येन गतोऽहं तस्यां पापिष्ठनिवासायां नगयों महातमःप्रभाभिधाने पाटके समुत्पन्नः पापिष्ठकुलपुत्रकरूपः / स्थितस्तत्रैव त्रयस्त्रिंशत्मागरोपमानि कन्दुकवदुसलमानोऽधस्तादुपरि च वज्रकण्टकैस्तुद्यमानः। तदित्यमवगाहितो मयातितीव्रतरदुःखभरमागरः। ततस्तत्यर्यन्ते जीर्णयां पूर्वदत्तगुडिकायां दत्ता ममान्या गुडिका भवितव्यतया / तत्तेजमा समागतोऽहं पञ्चाक्षपशुसंस्थाने नगरे। दर्शितस्तत्र जम्बकाकारधारको भवितव्यतया। एवं च भद्रेऽग्टहीतसङ्केते केलिपरतया तया निजभार्यया भवितव्यतया तस्यां पापिष्ठनिवासायां नगर्यामुपयुपरि स्थितेषु सप्तसु पाटकेषु तया पञ्चाक्षपशुसंस्थाने विकलाचनिवासे एकाचनिवासे मनुजगतौ किंबहुना तदसंव्यवहारनगरं विहायापरेषु प्रायेण सर्वस्थानेषु / जीर्णायां तस्थामेकभववेद्याभिधानायां कर्मपरिणाममहाराजसमर्पितायां पुनरपरापरां गुडिकां योजयन्यारघट्टघटौयन्त्रन्यायेन भ्रमितोऽहमनन्तं कालं प्रतिस्थानमनन्तवाराः / सर्वस्थानेषु च पर्यटतो मे जघन्या जाति For Private and Personal Use Only