________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 722 उपमितिभवप्रयचा कथा / तेन पापचरितस्य ममात्र विडम्बनम् // पुनर्धवकः / यो हि गर्वमविवेकभरेण करिष्यत इत्यादि। ततो रामदायकाः प्रोका विदितपूर्ववृत्तान्तेन योगेश्वरेण / अरेरे एवं गायत / इदं च कुरुत / योऽत्र जन्ममतिदायिगुरूनवमन्यते मोऽत्र दासचरणाग्रतलैरपि हन्यते / यस्त्वलोकवचनेन जनानुपतापयेत् तस्य तपननृप इत्युचितानि विधापयेत् // पुनर्धवकः / यो हि गर्वमित्यादि / ततश्चेदं गायन्तस्ते गाढं पार्णिप्रहारैमी निर्दयं चूर्णयितुं प्रवृत्ताः / ततो निविडलोहपिण्डैरिव समकालं निपतद्भिरेतावद्भिः पादैर्दलितं मे शरीरं / विमूढा गाढतरं मे चेतना / तथापि ते राजपुरुषा नरकपाला इव मम कुण्डकानिःमारमयच्छन्तस्तथैवोल्ललमाना मां बलादाखेटयन्तस्त्रितालकं रामं ददमाना एव प्राप्तास्तपननरेन्द्रास्थानं। दर्शितं तत्र विशेषतस्तत्प्रेक्षणकं / प्रवृत्तं प्रहसनं / ईदृशस्यैव योग्योऽयं दुरात्मेति संजातो जनवादः / ततो योगेश्वरेण रामकदायकमध्ये स्थित्वाभिहितम् / यथा / नो नतोऽसि पिटदेवगणं न च मातरं किं इतोऽसि रिपुदारण पश्यसि कातरम् / नृत्य नृत्य विहिताहति देवपुरोऽधुना निपत निपत चरणेषु च सर्वमहीभुजाम् // पुनर्धवकः / यो हि गर्वमविवेकभरेण करिष्यत इत्यादि। For Private and Personal Use Only