________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 721 मृषावादौ / ततः मंजिता योगेश्वरेणात्ममनुष्यकाः / ततोऽहं क्षणेनैव संजातोन्मादो वेदयमानस्तोत्रमन्तस्तापं विहितस्तैर्यथाजातः कृतः पञ्चजटो विलिप्तो भृत्या चर्चितो माषपुण्ड्रकैः / प्रवृत्तास्ते तालारवं कर्तुं / समवतारितोऽहं रासमध्ये। ततो मां नाटयन्तः प्रारब्धास्ते मनुष्यास्त्रितालकं रामं दात / कथम् / यो हि गर्वमविवेकभरेण करिष्यते बाधकं च जगतामनृतं च वदिष्यते / नूनमत्र भव एव स तौत्रविडम्बना प्राप्नुवौत निजपापभरेण भृशं जनः // ध्रुवकः // एवं च मोलाममुगायन्तस्ते वलामानाः कुण्डकमध्ये मां कृत्वा विज़म्भितुं प्रवृत्ताः। ततोऽहं पतामि तेषां प्रत्येकं पादेषु / नृत्यामि हास्यकरं जनानां / समुल्लमामि तेषल्लसमानेषु / ददामि च तालाः / ततस्तैरभिहितं / पश्यतेह भव एव जनाः कुतुहलं शैलराजवरमित्रविलासकृतं फलम् / यः पुरैष गुरुदेवगणानपि नो नतः मोऽद्य दामचरणेषु नतो रिपुदारण: // पुनर्धवकः / यो हि गर्वमविवेकभरेण करिष्यत इत्यादि। ततो ममापि मुखं स्फुटित्वेदमागतं / यदुत / पोलराजवशवर्तितया निखिले जने हिण्डितोऽहमनृतेन वृथा किल पण्डितः / मारिता च जननौ हि तथा नरसुन्दरी 91 For Private and Personal Use Only