SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 720 उपमितिभवप्रपञ्चा कथा / मा भैषुर्न दोषोऽयं भवतां / प्रतीतं मे रिपुदारणस्य शौलं। ततोऽई खयमेव तेन भलिब्यामि / केवलं भवद्भिरवस्तु निर्बन्धधरैर्न भाव्यं / मोक्तव्यस्तस्योपरि स्वामिबहुमानः। नोचितोऽमौ राजलक्ष्म्याः / न योग्यो युभद्विधपदातीनाम् / तथाहि शुभ्ररूपाणां रतानां शुद्धमानसे / न जातु राजहंसानां काको भवति नायकः // तन्मुञ्चत सर्वथा तस्योपरि स्नेहभावं। ततो मयि विरक्तवात्तेषामभिहितं सर्वैरपि। यदाज्ञापयति देव इति / ततो ऽभिहितस्तपनराजेन योगेश्वरनामा तन्त्रवादी कर्ण। यदुत गत्वा तस्येदमिदं कुरुष्वेति / योगेश्वरेणोक्तं। यदाज्ञापयति देवः / ततः समागतो मत्समीपे सह भूरिराजपुरुषेोगेश्वरः। दृष्टो ऽहं कृतावष्टम्भशैलराजेन ममालिङ्गितो मषावादेन परिवेष्टितश्चोत्यासनपरैर्नहिरङ्गैः पिङ्गलोकैः। ततः पुरुतः स्थित्वा तेन योगेश्वरेण तन्त्रवादिना प्रहतोऽहं मुखे योगचूर्णमुट्या। ततोऽचिन्यतया मणिमन्त्रौषधीनां प्रभावस्य तमिन्नेव क्षणे संजातो मे प्रकृतिविपर्ययः संपन्नं शून्यमिव हृदयं प्रतिभान्ति विपरीता इवेन्द्रिथार्थाः क्षिप्त व महागहरे न जानाम्यात्मस्वरूपं / तपनसत्कोऽयं योगेश्वर इति भौतो मदीयपरिवारः स्थितः किंकर्तव्यतामूढो मोहितश्च तेन योगशत्या / ततो विहितम्भकुटिना आः पाप दुरात्मनागच्छमि त्वं देवपादमूलमिति वदता ताडितोऽहं वेवलतया योगेश्वरेण / संप मे भयं / गतो दैन्यं पतितस्तच्चरणयोः / अत्रान्तरे नष्टोऽसौ मदयस्यः पुण्योदयः / तिरोभूतौ पोलराज For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy