________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / शैलराजीयहृदयावलेपनावष्टम्भः। केवलं मंज्ञितोऽहं मृषावादेन / ततो मयाभिहितं / न ममात्र क्षणे चित्तोत्साहः / तगच्छत यूयं कुरुत यथोचितं / अहं त पश्चादागमिष्यामि / दत्तास्थाने राजनि प्रवेक्ष्यामौति। ततो यदाज्ञापयति देव इति वदन्तो निर्गतास्तपनाभिमुखं मन्त्रिमहत्तमा राजलोकश्च / मन्ति च तस्य तपननपते विविधदेशभाषावेषवर्णस्वरभेद विज्ञानान्तर्धानविज्ञातारो बहवश्चर विशेषाः / ततः केनचिच्चरेण विदितोऽयं वृत्तान्तो निवेदितस्तपनाय। इतश्च मन्त्रिमहत्तमैर्विहिता तपनराजस्य प्रतिपत्तिरूपस्थापितानि महार्हप्राभूतानि समावर्जितं हृदयं / दत्तं चास्थानं तपननरेन्द्रेण / पृष्टा रिपुदारणवार्ता / मन्त्रिमहत्तमैरुक्त। देव देवपादप्रसादेन कुशली रिपुदारणः / समागच्छति चैष देवपादमूलमिति। ततो दत्ता ममाहायकाः / विजृम्भितौ शैलराजमृषावादौ / ततस्ते मयाभिहिताः / यदुत अरे वदत तान् गत्वा सर्वानमन्त्रिमहत्तमान् / यथा केनात्र प्रहिता यूयं दुरात्मानो नराधमाः // ___ ततो मया नागन्तव्यमेव / तूर्णमागच्छत यूयं। दूतरथा नास्ति भवतां जीवितमिति / तदाकर्ण्य गतास्तत्समीपमाकायकाः। निवेदितं मन्त्रिमहत्तमानां मदीयवचनं / ततस्ते तत्र स्थाने सवैलक्ष्याः सत्रामाः मोडेगा नष्टजीविताशाः परस्पराभिमुखमोक्षमाणा अहो रिपुदारणस्य मर्यादेति चिन्तयन्तः किमधुना कर्तव्यमिति विमूढाः सर्वेऽपि मदीयमन्त्रिमहत्तमाः / लक्षितास्तपननरेन्द्रेण / ततोऽभिहितमनेन / भो भो लोका धौरा भवत / For Private and Personal Use Only