________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / इतश्चोग्रप्रतापज्ञः सार्वभौमो द्विषतपः / चक्रवर्ती तदा लोके तपनो नाम भूपतिः // स सर्वबलसामय्या महौदर्शनलौ लया / भ्रमंस्तत्र समायातः पुरे मिद्धार्थनामके / ततो विदिततवार्तेरहं मन्त्रिमहत्तमः / हितकारितया प्रोको विज्ञातनपनौतिभिः / यदुत / चक्रवर्ती जगज्ज्येष्ठस्तपनोऽयं महीपतिः / तदस्य क्रियतां देव गत्वा सन्मानपूजनम् // पूज्योऽयं सर्वभूपानामर्चितस्तव पूर्वजैः / विशेषतो ग्रहायातः साम्प्रतं मानमर्हति // अहं तु शैलराजेन विधुरीकृतचेतनः / आभातस्तब्धसर्वाङ्गस्तानाभाषे तदेदृशम् // यदुत / अरे विमूढाः को नाम तपनोऽयं ममाग्रतः / येनास्य पूजनं कुर्यामहं न पुनरेष मे // तदाकर्ण्य मन्त्रिमहत्तमेस्त / देव मा मैवं वदतु देवः / अस्य हि पूजनमकुर्वता देवेन लवितः पूर्वपुरुषक्रमः परित्यक्ता राजनीतिः प्रलयं नौताः प्रकृतयः समुज्झितं राज्यसुखं परिहापितो विनयः अपकर्णितमम्मवचनं भवति / तन्नैवं वदितुमर्हति देवः / क्रियतामस्माकमनुरोधेन तपनराजस्याभ्युद्गमनं देवेनेति वदन्तः पतिताः सर्वेऽपि मम चरणयोः। ततो मृदूझतो मनाङ् मे For Private and Personal Use Only