________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 717 ततः प्रयोजनस्थास्य कश्चिदन्यो विचिन्तकः / यत्त तेऽभिमतं भूप तदेवाचर माम्पतम् // तच्छ्रुत्वाचिन्तयद्राजा स तदा नरवा इनः / अहो करामहो कष्टं सूनोर्मम तपखिनः / यस्येदृशौ रिपू नित्यं पार्श्वस्थौ दुःखदायिनौ / अहो वराको नेवासौ यथार्थो रिपुदारणः // ततः किं क्रियतामत्र नेवास्त्वस्य प्रतिक्रिया / त्यनमङ्गो ऽधुनाहं तत्करोमि हितमात्मने // ततोऽभिषिच्य मां राज्ये कृत्वा स यथोचितम् / विचक्षणगरोः पार्श्व निक्रान्तो नरवाहनः // ततश्च / विवेकशिखरस्थोऽपि स विचक्षणामूरिणा / सार्ध बाह्येषु देशेषु विजहार महामतिः // ममापि राज्ये संपन्ने लब्धावमरमौष्ठवौ / शैलराजमृषावादौ नितरामभिवर्धितौ // हणतन्यं जगत्मत्रं पश्यामि सुतरां ततः / जलगण्डषसंकाशमनृतं प्रतिभाति मे // एवं च / षिङ्गरुत्प्राप्यमानम्य निन्द्यमानस्य पण्डितैः / तुष्टस्य धूर्ततचनैरलोकैश्चाटुकर्मभिः // पुण्योदयस्य माहात्म्याद्राज्यं पालयतो मम / गतानि कतिचिद्भद्रे वर्षाणि किल लीलया // For Private and Personal Use Only