________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / संजाता किं पुनर्जातं तादृशं चरितं पुरा // सूरिणाभिहितं भूप न दोषो ऽस्य तपस्विनः / शैलराजमषावादावस्य सर्वस्य कारणम् // तातेनोक्तं / अनर्थसार्थहेतुभ्यां भदन्तेह कदा पुनः / श्राभ्यां पापवयवस्याभ्यां वियोगोऽस्य भविष्यति // सूरिराह महाराज वियोगो ऽद्यापि दुर्लभः / शोलराजमृषावादौ यतो ऽस्यात्यन्तवल्लभौ // कारणेन पुनर्यन वियोगोऽस्य भविष्यति / भूरिकाले गते तत्ते संप्रत्येव निवेदये // शुद्धाभिसन्धिर्विख्यातो नगरे शुभ्रमानसे / राजास्ति तस्य वे भार्थ वरतावर्यते किल // मृदुतासत्यते नाम तस्य दे कन्यके शुभे / विद्यते भुवनानन्दकारिके चारुदर्शने // माक्षादमृतरूपे ते ते सर्वसुखदायिके / अत्यन्नदुर्लभे भूप मृदुतासत्यते जनैः // एवं च स्थिते। कदाचिदेष ते कन्चे लस्यते रियुदारणः / तल्लाभे च वयम्याभ्यामाभ्यामेष वियोक्ष्यते // यतः / गुणसन्दोहभूते ते तथेमौ दोषपुञ्जको / तस्मात्ताभ्यां महावस्था नानयोभूप पापयोः // For Private and Personal Use Only