________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 75 चिन्तितं च ततस्तेन स एष रिपुदारणः / मया बहिष्कृतो गेहात्तपखौ शोच्यतां गतः / / हा हा मयेदं नो चारु कृतं यत्सुतभर्सनम् / विषवृक्षोऽपि संवर्य स्वयं छत्तुमसाम्प्रतम् // तदिदं प्राप्तकालं मे तथेदं जनकोचितम् / इदमेव सतां युक्तमिदं दुष्कृतशोधनम् // यदुत / एनं राज्येऽभिषिञ्चामि संपूज्य रिपुदारणम् / ततश्च कृतकृत्योऽहं दीक्षा ग्रहामि निर्मलाम् // भद्रेऽग्टहौतमङ्केते तथाहं दोषपुञ्जकः / तातस्य तादृशं चित्तं तत्रेदं हन्त कारणम् // नवनीतसमं मन्ये सुकुमारं सतां मनः / तत्पश्चात्तापसम्पर्काद् द्रवत्येव न संशयः // आत्मा स्फटिकशुद्धोऽपि सदोषः प्रतिभासते / परस्तु दोषपुञ्जोऽपि निर्मलोऽमलचेतमाम् // परोपकारसाराणां कारणेऽपि च निठुरम् / कृतं कर्म करोत्येव पश्चात्तापं महाधियाम् // ततश्चाहूय तातेन निजोत्मङ्गे निवेशितः / तदाहं प्रनितश्चेत्थं सूरिर्गद्गदभाषिण // भदन्त विदितस्तावनूनमेष भवादृशाम् / ज्ञानालोकवतां लोके यादृशो रिपुदारण: // तदस्य मत्कुले जन्म सामग्रीयं मनोहरा / For Private and Personal Use Only