________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। युक्रमेतद्धि भव्यानां कृत्यमेतद्भवादृशाम् // नूनं मदीयवाक्यस्य सद्भावार्थाऽवधारितः / संजातस्तेन ते भूप महोत्साहोऽयमौदृशः // तथाहि। तादृतु वलामानेषु महामोहादिशत्रुषु / को वा नाश्रयते दुगै सुक्षेमं जैनमत्पुरम् // निश्चिन्तो ग्रहवासेऽत्र को वा दुःखौघपूरिते / श्रामौत विदिते जैने सत्पुरे सुखसागरे // अलं कालविलम्बेन राजन्नत्र महाभये / एवं ते ज्ञाततत्त्वस्य युक्तमत्र प्रवेशनम् // ततो भावगतं वाक्यं श्रुत्वा संतुष्टचेतमा / तदेतचिन्तितं राज्ञा दीक्षाग्रहणकाम्यया // राज्ये के स्थापयामीति को वा योम्योऽस्य मत्सुतः / ततो विस्फारिता दृष्टि लाबदलस्वामिनी // अथाग्टहीतसङ्केते तदाहं रिपुदारणः / तथा निषलस्तत्रैव निर्भाग्यो रोररूपकः / दूतश्च / कृशोऽप्यमौ शरीरेण तथा तातस्य पश्यतः // पुण्योदयो वयस्यो मे मनाक् सस्फुरतां गतः // ततश्च / दृष्टो निरीक्ष्यमाणेन तातेनामलचेतमा / ततो मां वीक्ष्य तातस्य पुनः प्रत्यागतं मनः // For Private and Personal Use Only