________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 720 उपमिविभवप्रपच्चा कथा / निन्दितं कुलं अत्यन्तहीनं बलं गर्हितं रूपं निन्धं तपश्चरणं श्रा जन्म दारिद्र्य सततं च मूर्खता अलाभसन्तापदारुणं याचकत्वं सकलजनानिष्टत्वं च गुडिकाप्रयोगेणैव प्रकटितं भवितव्यतया। तथा जिहोत्पाटनं तप्तताम्रपानं मूकत्वं मन्मनत्वं जिकोच्छेदमित्यादि च विधापितवती। एवं च वदति संसारिजीवे प्रज्ञाविशालया चिन्तितं / अहो मानमृषावादयोर्दारुणता। तथाहि / तदशवर्तिनानेन संसारिजौवेन हारितो मनुष्यभावः प्राप्तास्तत्रैव विडम्बनाः अवगाहितो ऽनन्तः संसारमागरोऽनुभूतानि विविधदुःखानि प्राप्तानि गर्हितानि जात्यादौनौति / संमारिजीवः प्राह / ततोऽन्यदा दर्शितोऽहं भवचक्रपुरे मनुष्यरूपतया। संजाता मे तत्र मध्यमगुणता। ततस्तुष्टा ममोपरि भवितव्यता। आविर्भावितस्तया पुनरपि स सहचरो मे पुण्योदयः। ततोऽभिहितमनया। आर्यपुत्र गन्तव्यं मनुजगतौ भवता वर्धमानपुरे। स्थातव्यं तत्र यथासुखासिकया। अयं च तवानुचरः पुण्योदयो भविष्यति। मयाभिहितं। यदाज्ञापयति देवौ / ततो जीर्णायां प्राचीनगुडिकायां दत्ता पुनरेकभववेद्या मा ममापरा गुडिका भवितव्यतयेति // भवगहनमनन्तं पर्यटभिः कथंचिबरभवमतिरम्यं प्राप्य भो भो मनुष्याः / निरुपमसुखहेतावादरः संविधेयो न पुनरिह भवद्भिर्मानजिहानृतेषु // इतरथा बहुदुःखातेहता For Private and Personal Use Only