________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः यतोऽस्य विद्यते वत्म विमर्शस्य वराञ्जनम् / तबलाद्दर्शयत्येष तमिहेव महागिरिम् // प्रकर्षणोदितं तात सत्यमेतन्न संशयः / अनुभूतं मयाप्यस्य योगाञ्जनविजृम्भितम् // किं बहुना। यावदेष महावीर्यं न प्रयुक्त वराञ्जनम् / तावदेव न दृश्यन्ते ते पर्वतपुरादयः // यदा तु विमलालोकमयं युङ्क्ते तदञ्जनम् / तदा सर्वत्र भासन्ते ते पर्वतपुरादयः // ततो विचक्षणेनोको विमो भद्र दीयताम् / मह्यं तदञ्जनं वर्ण यद्यस्ति तव तादृशम् // ततोऽनुग्रहबुद्ध्यैव मादरं प्रतिपादितम् / विचक्षणाय निःशेषं विमर्शन तदननम् // ततस्तदुपयोगेन क्षणादेव पुरः स्थितम् / विचक्षणेन यदृष्टं तदिदानौं निबोधत // यत्तलोकमताकोण पुरं सात्त्विकमानसम् / यश्चासौ विमलस्तुङ्गो विवेको नाम पर्वतः // यञ्च तच्छिखरं रम्यमप्रमत्तत्त्वनामकम् / यच्चोपरिष्टात्तस्यैव निविष्टं जैनसत्पुरम् // ये च लोका महात्मानः माधवस्तन्निवामिनः पश्च चित्तसमाधानो मध्यस्थस्तत्र मण्डपः // या च निःस्पहता नाम वेदिका तत्र संस्थिता / For Private and Personal Use Only