________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 710 उयमितिभवप्रपञ्चा कथा / तस्याश्योपरि यच्चारु जीववौर्य महासनम् // चारित्रधर्मराजश्व परिवारविवेष्टितः / ये च तस्य गुणाः शुभ्रा ये च तेषां महौभुजाम् // तदिदं भो महाराज तदानौं नरवाहन / विचक्षणेन निःशेषं साक्षादेवावलोकितम् // ततश्च भो भो महानरेन्द्र नरवाहन स विचक्षण: सहैव तेन शुभोदयेन पित्रा युक्त एव तया निजचारुतया मात्रा प्रालिङ्गित एव तया प्रियभार्यया बुड्या सहित एव तेन श्वशर्येण विमर्शन अन्वित एव वक्षःस्थल शायिना तेन प्रकर्षण प्रियतनयेन समुपेत एव वदनकोटरवने वर्तमानया रमनाभार्यया सर्वथा सकुटुम्बक एव / केवलं तामेकां लोलतां दासचेटौं परित्यज्य निराकृत्य च परुषक्रियया संप्राप्य गुणधरनामालमाचार्य प्रवाजितस्तेन स्थितस्तेषां जैनपुरनिवासिनां भगवतां साधूनां मध्ये किलाई प्रव्रजित इति मन्यमानः / ततः शिक्षितः समस्तोऽपि तेन तेषामाचारो निषेवितः परमभक्त्या विसर्जिता मा रसना सर्वथा विहितात्यर्थमकिञ्चित्करौ। ततः स्थापितस्तेन गुरुणा निजपदे म विचक्षणः / म चान्यत्रापि दृश्यमानः परमार्थतस्तत्रैव विवेकगिरिशिखरवामिनि जैनपुरे द्रष्टव्यः / यतो भो महाराज नरवाहन म विचक्षणोऽहमेव विज्ञेयः / एते च ते महात्मानः माधवो मन्तव्याः। ततो महाराज यद्भवद्भिरभ्यधायि यदुत किं ते वैरग्यकारणमिति तदिदं मम वैराग्यकारणं / इयं चेदृशौ मदौथा प्रव्रज्येति / एवं च व्यवस्थिते / For Private and Personal Use Only