________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / स्थितो विचक्षणः पूर्वं यावत्तौ ममुपागतौ // ततश्च / कथितायां विमर्शन मूलशद्धौ विचक्षणः / रमनां त्यकामोऽसौ पितरं प्रत्यभाषत / तात दृष्टविपाकेयं रसना साम्प्रतं जडे / दुहिता दोषपुञ्जस्य रागकेसरिमन्त्रिणः // तदेनामधुना दुष्टां भायों दुष्टकुलोद्गताम् / सर्वथा त्यनुमिच्छामि ताताहं त्वदनुज्ञया // ततः शुभोदयेनोक्तं भार्यति प्रथिता जने / तवेयं रसना तस्मान्नाकाण्डे त्यागमहति // श्रतः क्रमेण मोकव्या वयेयं वत्स सर्वथा / यदत्र प्राप्तकालं ते तदाकर्णय माम्प्रतम् // ये ते तुभ्यं महात्मानो विमर्शन निवेदिताः / विवेकपर्वतारूढा महामोहादिसूदनाः // तेषां मध्ये स्थितस्येयं तदाचारेण तिष्ठतः / दुष्यापि रसना वत्म न ते किंचित्करिष्यति // तस्मादारुह्य यत्नेन तं विवेकमहागिरिम् / रसनादोषनिर्मुक्तस्तिष्ठ वं मकुटुम्बकः / ततो विचक्षणेनोक्तं तात दूरे स पर्वतः / कथं कुटुम्बसहितस्तचाहं गन्तुमुत्महे // शुभोदयोऽब्रवीदत्म न कार्य भवता भयम् / विमर्गो यस्य ते बन्धुश्चिन्तामणिरिवातुलः // For Private and Personal Use Only