________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थ प्रस्तावः। रमना लोलता तुष्टा मोऽपि हर्षमुपागतः // भृयश्च लोलतावाक्यैरपरापरमानुषान् / निहत्य भार्यया साधं खादञ्जातः म राक्षसः // ततो बालजनेनापि निन्दितो बन्धवर्जितः / लोकेन परिभूतश्च म जातः पापकर्मणा // अन्यदा लोलतायुक्तो मनुष्याणां जिघांसया / प्रविष्टश्चौरवद्रात्रौ ग्टहे शूरकुटुम्बिनः // ततः प्रसुप्तं तत्सून ग्टहौवा निःसरन् बहिः / म दृष्टस्तेन शूरेण जडः क्रोडान्धचेतसा // ततः कलकलारावं कुर्वता सह बान्धवैः / तेनास्फोग्य निबद्धोऽसौ मारितो यातनाशतैः / / प्रभाते च स वृत्तान्तः संजातः प्रकटो जने / तथापि किंचिच्छरस्य न कृतं जडबन्धुभिः // किं तर्हि प्रत्युत तैचिन्तितं / यदुत / शूरेण विहितं चारु यदसौ कुलदूषणः / अस्माकं लाघवोत्यादी जडः पापो निपातितः // अमुं च जडवृत्तान्तं निरीक्ष्य स विचक्षणः / ततश्च चिन्तयत्येवं निर्मलीमसमानमः // अये। दह लोके जडस्येदं रसनालालने फलम् / संजातं परलोके तु दुर्गतिः संजनिष्यति // ततोऽत्यर्थं विरक्तोऽसौ रमनालालनं प्रति / For Private and Personal Use Only