________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / यथेयं वर्तते पुत्री रागकेसरिमन्त्रिणः / कुहलवशेनैव भवचक्रं यथा गतौ / निरौचित च तत्सर्वं नानावृत्तान्तमङ्कुलम् // यथा दृष्टा महात्मानो विवेकवरपर्वते / चारित्रधर्मराजस्य यथा स्थानं विलोकितम् // यथा दृष्टः म सन्तोषो यच्च तेन विचेष्टितम् / यच्च कारणमुद्दिश्य भूरिकालोऽतिवाहितः // नदिदं तेन निःशेष विमर्शन परिस्फुटम् / पुरो विचक्षणादौनां विस्तरेण निवेदितम् // दूतश्च मांसमद्याद्यैालयंस्तामसौ जडः / रमनां लोलतावाक्यैर्न चेतयति किंचन // स तस्या लालने सक्तः कुर्वाण: कर्म गर्हितम् / न पश्यति महापापं न लन्नां न कुलक्रमम् // अन्यदा खोलतावाक्यैर्मद्यविहलचेतसा / महाजं मारयामौति मारितः पशुपालकः // ततश्च तमजार पसभात्या निपातितम् / निरीक्ष्य लोलतादुःखाज्जडेनेदं विचिन्तितम् // लालिता रसना नूनं मांसैर्नानाविधैर्मया / इदं तु मानुषं मांसं नैव दत्तं कदाचन // ततोऽधुना ददामोदमस्यै पश्यामि यादृशः / अनेन जायते तोषो रमनायाः सुखावहः // ततः संस्कृत्य तदत्तं तेन जाता प्रमोदिता / For Private and Personal Use Only