________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः 705 एवं व्यवस्थिते तात मुच्यतां गमनादरः / यथेयन्तं स्थितः कालं तिष्ठात्रैव तथाधुना // किं च / गच्छवत्र बहुः कालो न दोषाय गुणावहः / यत: मोऽनुक्षणं वत्स जायते तव वृद्धये // एवं भवतु तेनोके पुनर्मासचतुष्टयम् / स्थित्वा समागतौ गेहे इष्टौ स्वसीयमातुलौ // अथ प्रविष्टौ तौ गेहे दत्तास्थाने शुभोदये / भार्यायुक्त च तस्यैव निकटस्थे विचक्षणे // ततो विधाय सद्भक्त्या प्रणामं विहिताचली / तेषां पुरो निविष्टौ तौ विनयाच्छुद्धभूतले // बलादुत्थाप्य बुड्यासौ विमर्श: स्निग्धचेतमा / प्रालिङ्गितः प्रयत्नेन तद्भ! च पुनः पुनः // प्रकर्षोऽपि समालिङ्ग्य स्नेहनिर्भरमानमः / निजाङ्के स्थापितः सर्वैः परिपाच्यातिवल्लभः // आघ्रातो मूर्धदेशे च कुशलं च मुहुर्मुडः / आनन्दोदकपूर्णाः पृष्टः सर्वैः समातुलः // ततो यथा विनिर्गत्य गेहाबाह्येषु हिण्डितौ / ततोऽन्तरङ्गदेशेषु यथा पर्यटितौ पुनः // यथा पुरदयं दृष्टं यथा दृष्टा महाटवी। विलोकितं यथा स्थानं महामोहादिभूमुजाम् // रसनामूलशद्धिश्च यथा सम्यम्बिनिश्चिता / For Private and Personal Use Only