________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। एवं भवतु तेनोक्ने ततस्तत्रैव सत्पुरे / तिष्ठतोः प्राडायाता तयोः सा हन्त कीदृशौ / घनतङ्गपयोधरभारधरा समदुञ्चलविद्युदलङ्करणा / कृतमन्ततगर्जितधोररवा दृढगोपितभास्करजाररता // रटदुद्भटदर्दुरखिगनरा चलशुभ्रवलाहकहासपरा / गिरिकोटरनृत्तशिखण्डिवरा बहुलोकमनोहररूपधरा // सुसुगन्धिकदम्बपरागवहा विटकोटिविदारणमोदसहा / इति रूपविलासलसत्कपटा भुवनेऽत्र रराज यथा कुलटा // अथ तां तादृशौं वीक्ष्य प्रावृषं इष्टमानमः / प्रकर्षों गमनोधुनः प्रोवाच निजमातुलम् // गम्यतामधुना माम वरितं तातसन्निधौ / यतोऽमौ शीतलीभूता वर्तन्ते सुगमाः पथाः // विमर्शनोदितं वत्स मैवं वोचः कदाचन / यतोऽधुना व्यवच्छिनौ विशेषेण गमागमौ // तथाहि। सुच्छन्नग्रहमध्यस्थाः स्वाधीनदयिताननाः / वर्षासु धन्या गण्यन्ते जनैर्य न प्रवामिनः // तथाहि / पश्यतु वत्मः / जलपूरितमार्गेषु पङ्कक्लिनेषु गच्छतः / स्खलित्वा पतितानेते हसन्ति कुटजोत्कराः // निपतवारिधारोघहता ये यान्ति पापिनः / देशान्तरेषु तान्मेघो मारयामीति गर्जति // For Private and Personal Use Only