________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 7. 3 अपि च / भानोरिव प्रतापेन संतुष्टं वर्धितं दिनम् / स्वामिनोऽभ्युदये सर्वः सन्तोषादभिवर्धते // यत्र च विदलिता मल्लिकाः / विकसिता जात्यपाटलाः / श्यामलितं कुसुमभरेण शिरीषवनं / सुभगीभूताश्चन्द्रकिरणाः / हृदयदयिता जलाशयाः / मनोभिरुचिता मौक्तिकहारयष्टयः / अतिवल्लभानि विमलहयंतलानि / प्रियतमानि चन्दनविलेपनानि / अमृतायन्ते तालबन्तव्यजनकानि / सुखायन्ते शिशिरकिमलयकुसुमस्रस्तराः / लगन्ति बहिःशरीरनिहिता अपि जनानामन्तर्मानसे चन्दनजलार्द्रा इति / ततश्चैवंविधे काले भागिनेयमभाषत / गच्छावः माम्प्रतं वत्स स्वस्थानमिति मातुलः // प्रकर्षः प्राह गमने दारुणोऽवसरोऽधुना / तन्नाहं माम शक्नोमि गन्तुमेवंविधेऽध्वनि // ततो मासदयं तिष्ठ माम सन्तापदारुणम् / येनाहं शीतलीभूते दिक्चक्रे यामि सत्वरम् // किंच। विचारपरयोः स्थानमावयोर्गुणकारणम् / अत्र जैनपुरे माम मा मंस्था निष्प्रयोजनम् // यतः / मम स्थैर्य भवेदेवं पुरस्यास्य गुणोस्करे / ततस्तातोऽपि जायेत मद्गुणदत्र बद्धधीः // For Private and Personal Use Only