________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपश्चा कथा / अनन्ताल्हादसन्दोहदायका जगतो मताः // चारित्रधर्मराजाद्याः सर्वेऽप्येते नरेश्वराः / सुखहेतव एवात्र सर्वेषामपि देहिनाम् // तदेते स्वाङ्गिकास्तात तावदित्यं मयाखिलाः / चारित्रधर्मराजस्य बान्धवास्ते निवेदिताः // ये त्वमौ वेदिकाभ्यर्ण वर्तन्ते मण्डपस्थिताः / शुभाशयादयस्तात तेऽप्यस्यैव पदातयः // अस्यादेशेन कुर्वन्ति सुन्दराणि सदा जने / एते कार्याणि भूपाला निर्मिथ्यमम्मृतोपमाः // किं च / मनुष्या योषितो डिम्भा ये लोकसुखहेतवः / विवर्तन्ते समस्तास्ते मध्येऽमौषां महीभुजाम् // ततश्च / असंख्यातजनं वत्म पूरितं भूरिभूमिपैः / निःशेषमिदमास्थानं को हि वर्णयितुं क्षमः // ततो मयेदं ते वत्म समासेन निवेदितम् / गच्छावः साम्प्रतं द्वारे यदि पूर्ण कुदहलम् // एवं भवतु तेनोने विनिर्गत्य विलोकितम् / चतुरङ्गं बलं ताभ्यां तदीयं तच कीदृशम् // गाम्भीर्योदार्यशौर्यादिनामभिः स्यन्दनैः सदा / खद्घणघणरावपूरिताशेषदिक्पथम् // यशःसौष्टवसौजन्यप्रश्रयादिमहागजैः / For Private and Personal Use Only