________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 701 विलसत्कण्ठनिर्घोषसंरुद्धभुवनीदरम् // बुद्धिपाटववाग्मित्वनैपुण्यादितुरङ्गमैः / महाहेषारवापूर्णमत्प्रजाकर्णकोटरम् // अचापलमनखित्वदाक्षिण्यादिपदातिभिः / अलब्धगाधविस्तीर्णस्तिमितोदधिविभ्रमम् // ततश्चैवंविधं वीक्ष्य चतुरङ्गं महाबलम् / प्रकर्षश्चेतसा तुष्टः प्रोवाच निजमातलम् // यथेष्टमधुना माम पूरितं मे कुतहलम् / यदच किंचिद्रष्टव्यं तत्सर्वं दर्शितं त्वया // तथाहि / दर्शितं भवचक्र मे नानावृत्तान्तमङ्कुलम् / महामोहादिवौर्य च कारणैरपरापरैः // विवेकपर्वतश्चायं दर्शितो मे मनोहरः / निवेदितं च मलोकः पूर्ण मात्त्विकमानसम् // शिखरं चाप्रमत्तत्वं जैन चेदं माहपुरम् / युक्तं महात्मभिर्लोकर्दर्शितं मम सुन्दरम् // तथा चित्तसमाधानो मण्डपो वेदिका च मे / त्वया निःस्पृहताख्याता जीववीयं च विष्टरम् // वर्णितश्च महाराजः साक्षात्करणपूर्वकम् / प्रत्येकं वर्णिताः सर्वे भूपालास्तस्य सेवकाः // इदं च दर्शितं रम्यं चतुरङ्ग महाबलम् / एवं च कुर्वता माम नास्ति तद्यत्र मे कृतम् // For Private and Personal Use Only