________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / सदा सैन्यदयस्यास्य रुषान्योन्यं जिगोषतः / काले गच्छति पद्माक्ष न जाने किं भविष्यति // स एष दर्शितस्तुभ्यं मया सन्तोषतन्त्रपः / पाख्यातश्चास्य वृत्तान्तो यत्र तेऽत्यन्तकौतुकम् // या वस्य पार्श्व पद्माची दृश्यते वत्म बालिका / मा निष्यिपामिता नाम भार्यास्यैव वरानना // शब्दरूपरसस्पर्शगन्धेषु सुधियां मनः / निस्तष्णकं करोत्येषा रागद्वेषविवर्जितम् // लाभालाभे सुखे दुःखे सुन्दरेऽसुन्दरेऽपि च / तथाहारादिके जाते सन्तुष्टिं जनयत्यलम् // तदेवं वत्म बुध्यख निर्विकल्पेन चेतमा / चारित्रधर्मराजोऽत्र नायकः परमार्थतः / / यतिधर्मः सुतो ज्यायान् ग्रहिधर्मः कनिष्ठकः / मन्त्री सद्दोधनामायं निविष्टो राज्यचिन्तकः // महत्तमस्तु विज्ञेयः सम्यग्दर्शननामकः / सन्तोषस्तन्त्रपालोऽयमेवं वत्मावधारय // महामोहादयः सर्वे यथा भुवनतापकाः / तथैते वत्स विज्ञेया भुवनाल्हादकारिणः // एते हि जगदालम्बा एते हितविधायकाः / एते समस्तजन्तूनां पारमार्थिकबान्धवाः // एते निरन्तसंसारमागरोत्तारकारकाः / For Private and Personal Use Only