________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ह उपमितिभवप्रपञ्चा कथा। शूरो नौतिपरो दक्षः सन्धिविग्रहवेदकः / तेनेष तन्त्रपालवे नियुक्तो मूलभूभुजा // संपूर्णबलसामय्या भ्रमतोद्दामलीलया / अनेन स्पर्शनादीनि तानि दृष्टानि कुत्रचित् // ततोऽभिभूय तान्येष स्वमाहात्म्य न निर्वृतौ / नयति स्म जनं कंचिद्दलेनैषां महीभुजाम् // ततो विज्ञाय वृत्तान्तमेनं ते जनवार्तया / महामोहादिभूपालाश्चलिता रणकाम्यया // ततस्तैः खधिया वत्म कल्पितो मूलनायकः / पदातिरपि सन्तोषस्तत्रेदं हन्त कारणम् // तावन्मात्रं जनो वेत्ति यावन्माचं किलेक्षते / यतः सितादरोऽपौह कृष्णः सोऽभिधीयते // अनेन स्पर्शनादौनि निहतानौति वार्तया / अस्योपरि यथा रोषस्तेषां शेषेषु नो तथा // सन्तोषमुररीकृत्य ततो विग्रहवाञ्छया। महामोहादयो वत्स स्वपुरेभ्यो विनिर्गताः // चित्तवृत्तिमहाटव्यां रणमेषामनेकशः / संजातं न च संजातौ स्फुटौ जयपराजयौ / यतः / क्वचिज्जयति सन्तोषस्तन्त्रपालोऽरिसंहतिम् / प्रभवन्ति क्वचित्तेऽपि महामोहादिभूभुजः // एवं च स्थिते / For Private and Personal Use Only