________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 667 अनेकरूपविस्तारकारकोऽयमुदाहृतः // क्वचिद्दीर्घ कचिद्रवं क्वचित् स्तोकं क्वचिद्दहु / वस्तुजातं जगत्यत्र विलोकयति लीलया // चतुर्थः पुरुषो वत्स मनःपर्यायनामकः। साक्षात्करोति वौर्यण परेषां यन्मनोगतम् // मनुष्यलोके नात्यत्र चित्तं तत्तात किंचन / अनेन यन्न दृश्येत धौमता भाववेदिना // पञ्चमः पुरुषो वत्म केवलो नाम विश्रुतः / निःशेषज्ञेयविस्तारमेष पश्यति सर्वदा // निर्वृति नगरौं यान्ति ये जना जैनसत्यरात् / तेषामेष प्रकृत्यैव नायकः पुरुषोत्तमः // तदेष पञ्चभिर्वत्म वयस्यैः परिवारितः / मद्दोधसचिवो लोके साक्षादिव दिवाकरः // प्रकर्षणोदितं माम म मन्तोषमहीपतिः / न दर्शितस्त्वयाद्यापि यत्र मेऽत्यन्तकौतुकम् // ततस्तन्मातुलेनोक्तं वत्म योऽयं पुरः स्थितः / संयमस्य स विज्ञेयः सन्तोषो नात्र संशयः // प्रकर्षणोकम् / यस्योपरि समायाता महामोहादिभूभुजः / / विक्षेपेण स सन्तोषो नैष किं मूलनायकः // विमर्शनोदितं वत्म नेवायं मूलनायकः / चारित्रधर्मराजम्य पदातिरिति ग्राह्यताम् // AS For Private and Personal Use Only