________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 664 उपमितिभवप्रपञ्चा कथा / सदेतौ जैनलोकानां राजपुचौ मभार्यको / विज्ञातव्यौ प्रकृत्यैव सततानन्दकारको // अनयोश्च सदा पित्रा विहितः परिपालकः / अयं महत्तमो वत्स सम्यग्दर्शननामकः // अनेन रहितावेतौ दृस्यते न कदाचन / एतौ हि वर्धयत्येष निकटस्थोऽतिवत्सलः // अन्यच्च / यानि ते कथितान्यत्र सप्त तत्त्वानि मत्परे / दृढनिश्चयमेतेषु भवचक्रे पराङमुखम् // शमसंवेगनिवेदकपास्तिक्यविराजितम् / मैत्रौप्रमोदकारुण्यमाध्यस्यैर्भावितात्मकम् // सदा प्रयाणकारूढं निर्वतौ गमनेच्छया / करोत्येष जनं वत्म सम्यग्दर्शननामकः // या त्वेषा दृश्यते वत्म शुभवर्णा मनोहरा / दूयमस्यैव सद्भार्या सुदृष्टि म विश्रुता // यं हि जैनलोकानां मन्मार्ग वौर्यशालिनौ / चित्तस्थैर्यकरी ज्ञेया विधिना पर्यपामिता // एवं च स्थिते / योऽसौ निवेदितस्तुभ्यं कुदृष्टिसहितः पुरा / विचित्रचरितस्तात महामोहमहत्तमः // तदाचारविरुद्धं हि सर्वमस्य विचेष्टितम् / विज्ञेयं जगदानन्दं सुविचारितसुन्दरम् // For Private and Personal Use Only