________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 665 स तन्त्रयति यत्नेन महामोहबलं सदा / चारित्रधर्मराजस्य बलमेष महत्तमः // सम्यग्दर्शनसंज्ञस्य तस्मादत्र व्यवस्थितः / स एव शत्रुः परमो मिथ्यादर्शननामकः // एवं च स्थिते / त्रिरूपश्च भवत्येष किंचिदासाद्य कारणम् / चयेण प्रतिपक्षस्य प्रशमेनोभयेन वा // तच रूपत्रयं वत्म जायेतास्य स्वभावतः / यदा संपादयेदेष मन्त्री सद्दोधनामकः // अयं हि सचिवो वत्म सबोधो भवनोदरे / तबास्ति यन्न जानौते पुरुषार्थप्रमाधकम् // भवद्भूतभविष्यत्सु भावेषु भवभाविषु / विज्ञातं प्रभवत्येष सूक्ष्मव्यवहितेषु च // किं चात्र बहुनोकेन जगदेष चराचरम् / अनन्तद्रव्यपर्यायं वौक्षते विमलेक्षणा: // निपुणो नौतिमार्गेषु वत्मलश्च महीपतेः / चिन्तको राज्यकार्याणां बले च विहितादरः // प्रियो महत्तमस्योच्चैस्तस्य च स्थिरताकरः / मकलेऽपि जगत्यत्र मचिवो नास्त्यमूदृशः / / किं च / ज्ञानसंवरणस्यायं प्रतिपक्षतया स्थितः / क्षयोपशमतस्तस्य चयाच द्विविधो मतः / / For Private and Personal Use Only