________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः ! द६३ ग्रहिधर्माभिधानोऽसौ कनिष्ठोऽस्य महोदरः // यदेष कुरुते वत्स युक्तो द्वादशमानुषैः / जैनेन्द्रसत्पुरे चित्तं लमबुद्दामलीलया // तदहं वर्णयिष्यामि पुरतस्ते वरेक्षण / चेतः समाहितं कृत्वा तच्च वत्सावधारय // अत्यन्तस्थलवत्मायाः क्वचिदिरतिसुन्दरम् / स्थलालोकनिवृत्तं च करोत्येष पुरे जनम् // स्थूलस्तयनिवृत्तं च परदारपराङ्मुखम् / क्वचित्संक्षिप्तमानं च सकलेऽपि परिग्रहे / परित्यकनिशाभक्तं कृतमानं च संवरे / युकोपभोगसम्भोगं कर्मानुष्ठानकारकम् // अनर्थदण्डविरतं मामायिकरतं सदा। देशावकाशिके सक्तं पौषधे कृतनिश्चयम् // अतिथेः मविभागेन परिपूतमनोमलम् / करोत्येष जनं वत्म ग्रहिधर्मोऽत्र सत्पुरे // किं च / यो यावन्तं करोत्यत्र निर्देशं शक्तितो जनः / तस्य तावत्करोत्येष फलं नास्त्यत्र संशयः // या वेषा बालिका वत्म विस्फारितवरेक्षणा / दृश्यतेऽस्यैव भार्ययं नाम्ना सद्गुणरकता // वत्सला मुनिलोकस्य गुरूणां विनयोद्यता। भर्तरि स्नेहबद्धेयं वत्म सद्गुणरक्तता // For Private and Personal Use Only