________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / युको द्वादशभिर्वत्म स्वाङ्गिकैर्वरमानुषेः / एतेषां च प्रभावेण मानुषाणां नरोत्तमः / यदेष कुरुते जैने पुरे तत्ते निवेदये // सर्वाहारपरित्यागानिःस्पृहं कुरुते जनम् / वौयं च वर्धयत्येष कारयन्यनभोजनम् // अस्थादेशेन कुर्वन्ति नानाभिग्रहसुन्दरम् / मुनयो वृत्तिसङ्क्षपं शमसातविवर्धनम् // तथा / रसभोगं न कुर्वन्ति मोहोट्रेकादिकारणम् / अस्यादेशानिषेवन्ते कायक्लेशं सुखावहम् // कषायेन्द्रिययोगैश्च संलौनास्तात माधवः / विविक्रचर्यया नित्यमामते तेन चोदिताः // प्रायश्चित्तं च दशधा विनयं च चतुर्विधम् / वैयापृत्यं च कुर्वन्ति दशधेवास्य वीर्यतः // पञ्चप्रकारं खाध्यायं देधा ध्यानं च मत्तमम् / सततं कारयत्येष मुनिलोकं नरोत्तमः // गणोपधिशरीराणामाहारस्य च निःस्पृहाः / प्राप्ते काले प्रकुर्वन्ति त्यागमेतेन चोदिताः // लेशोद्देशादिदं वत्म तपोयोगविचेष्टितम् / वर्णितं विस्तरेणास्य वर्णने नास्ति निष्ठितिः // यस्त्वयं दृश्यते वत्स षष्ठोऽमौषां मनोरमः / वल्लभो मुनिलोकस्य संयमाख्यो नरोत्तमः / For Private and Personal Use Only