________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / (88 मधूनां दर्शयत्युग्रं तपोऽष्टादशमासिकम् // . यस्त्वेष दृश्यते वत्स चतुर्थो वरभूपतिः। स सूक्ष्मसंपरायाख्यः सूक्ष्मपापाणुनाशकः // अत्यन्तनिर्मचो वत्म निधूताशेषकल्मषः / एष मारो यथाख्यातः पञ्चमो वरभूपतिः / शरीरं जीवितं प्राणाः सर्वस्व तत्त्वमुत्तमम् / चारित्रधर्मराजस्य पञ्चाप्येते वयस्यकाः // यस्त्वेष निकटे वत्स दृश्यते मूलभूपतेः / मोऽस्यैव यतिधर्माख्यः सुतो राज्यधरः परः / / बहिर्विलोकिता भद्र ये त्वया मुनिपुङ्गवाः / अत्यन्तवल्लभस्तेषामेष राजसुतः सदा // यैरेष दशभिर्वत्म परिवारितविग्रहः / मानुषाणि प्रकुर्वन्ति तानि यत्तन्निबोध मे // योषिदाद्या क्षमा नाम मुनीनामपि वलभा / तेषामुपदिशत्येषा सदा रोषनिवारणम् // डिम्भरूपमिद तात द्वितीयमिह मार्दवम् / करोति निजवौर्येण माधनामतिनवताम् // हतीयमाजवं नाम डिम्भरूपमिदं सदा / सर्वत्र सरलं भावं विधत्ते वत्स सद्धियाम् // एषा तु मुक्रता तात चतुर्थों खलना सदा। निःसङ्ग बहिरन्तश्च मुनौनां कुरुते मनः // तपोयोग इति ख्यातः संशुद्धः पञ्चमो नरः / 87 For Private and Personal Use Only