________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 688 उपमितिभवप्रपञ्चा कथा / किं च / मर्वेषामेव सुखदो भवनोदरचारिणाम् / वत्म चारित्रधर्मोऽयममृतं कस्य दुःखदम् // तथापि पापिनः सत्त्वा भवचक्रनिवासिनः / एके नैनं विजानन्ति निन्दन्त्यन्ये विपुण्यकाः // नदेष ते महाराजश्चतुर्वदनसुन्दरः / वर्णितः साम्प्रतं वक्ष्ये परिवारमथाधना // यैषा विलोक्यते वत्स शुद्धस्फटिकनिर्मला / अर्धामने निविष्टास्य नारौ सर्वाङ्गसुन्दरौ // इयं हि विरतिर्नाम भार्यास्य वरभूपतेः / समानगणवौर्या च भूभुजानेन वर्तते // तथा हि। पाल्हादजननौ लोके निर्मार्गदेशिका / गता तादात्म्यमेतेन न भिन्नेयं प्रतीयते // य एते पञ्च दृश्यन्ते राजानोऽभ्यर्णवर्तिनः / एतस्यैव नरेन्द्रस्य वाङ्गभूता वयस्यकाः // तत्र च / श्राद्यः सामयिकाख्योऽयं भूपतिजैनमत्पुरे / निःशेषपापविरतिं वत्स कारयते सदा // छेदोपस्थापनो नाम दितीयो वत्म भूपतिः / पापानुष्ठानमवातं विशेषेण निषेधति // परिहारविशद्धौयस्तृतीयस्तु नरेश्वरः / For Private and Personal Use Only