________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 687 अस्यादेशादिमे जैना भावयन्तौह मज्जनाः / समस्तवस्तु विस्तारमतितुच्छ विनश्वरम् // नास्तौह शरणं लोके दुःखपीडितदेहिनाम् / एकश्च जायते जन्तुम्रियते च भवोदधौ // यदिदं देहिनां किंचिच्चित्ताबन्धविधायकम् / शरीरं धनमन्यदा म तद्भिन्नमात्मनः // मूत्रान्त्रक्लेदजाम्बालपूरितं च कलेवरम् / तदचात्यन्तबीभत्से शुचिगन्धो न विद्यते // माता भूत्वा पुनर्भार्या भवत्यत्र भवोदधौ / कर्मास्रवो भवत्येव पापानुष्ठानकारिणम् // निवृत्तानां कदाचाराज्जायते वरसंवरः / तपमा तु भवत्येव सततं कमीनर्जरा // मृता जाताश्च सर्वेषु लोकोद्देशेषु जन्तवः / भक्षितानि च सर्वेषु रूपिद्रव्याणि जन्तुना // संमारमागरोत्तारकारकश्च जिनोदितः / धर्मः सुदुलभा चात्र बोधिः सर्वज्ञदर्शने // ये चैवं भावयन्यत्र शुद्धाः संशुद्धबुद्धयः / श्रादेशं वदनस्यास्य ते धन्यास्ते मनस्विनः // चारित्रधर्मराजस्य वदनं चारुदर्शनम् / इदं वत्म प्रकृत्यैव सर्वसौख्यकरं परम् // तदेष वदनैर्वत्म चतुर्भिः पुरवासिनाम् / एषां निःशेषसौख्या नि करोत्येव महानृपः // For Private and Personal Use Only