________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 861 स मतदशभियुक्तो मानुषैर्जिनसत्पुरे / यथा विजम्भते तात तत्ते सर्व निवेदये // पापासवपिधानेन शान्तबोधनिराकुलम् / पञ्चेन्द्रियविरोधेन संतुष्टं विगतस्पहम् // कषायतापप्रशमाच्चित्तनिर्वाणबन्धुरम् / मनोवाक्काययोगानां नियमेन मनोहरम् // मततं धारयत्येष मुनिलोकं नरोत्तमः / संयमानः खवौर्यश निममंतिसागरे // अथवा / इलाजलानलगतामनिला खिस्लशाखिनाम् / हिंसां द्वित्रिचतुष्यञ्चहषौकाणां निषेधति // अचित्तमपि यवस्तु हिंसाकरमसुन्दरम् / . ग्रहणं तस्य यत्नेन वारयत्येष संयमः // प्रेक्षणं स्थण्डिलादौनां ग्टहस्थानामुपेक्षणम् / स्थानादिकरणं सम्यक् तद्भूमौनां प्रमार्जनम् // आहारोपधिशय्यानामशद्धाधिकभावतः / परिष्ठापनमन्तश्च मनोवाक्वाययन्त्रणम् // विमुनभवकर्तव्यैः सततं सुसमाहितः / मुनिभिः कारयत्येष सर्वमेतबरोत्तमः // तदिदं लेशतो वत्म चरितं परिकीर्तितम् / नरस्य संयमाख्यस्य शेषाणां टणु माम्प्रतम् // य एष सप्तमो वत्स दृश्यते पुरुषोत्तमः / For Private and Personal Use Only