________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 685 बोधावष्टम्भतुष्टात्मा स प्राह निजमातुलम् / माम वर्णय राजानं येनाहमवधारये // ततस्तन्मातुलेनोक्तं वत्स योऽयं नराधिपः / लोके चारित्रधर्मोऽयं प्रसिद्धोऽत्यन्तसुन्दरः // अनन्तवीर्यो विख्यातः प्रगुणो जगते हितः / समृद्धः कोशदण्डाभ्यां ज्ञेयः सर्वगणाकरः // यान्यस्य वत्म दृश्यन्ते चत्वारि वदनानि भोः / तेषां नामानि ते वक्ष्ये वौर्याणि च निबोध मे / दानं शौलं तपस्तात चतुर्थ शुद्धभावमम् / एतानि ननु वत्राणां नामान्येषां यथाक्रमम् // तत्राद्यं दापयत्यत्र पात्रेभ्यो जैनसत्पुरे / मज्ञानं मोहज्ञानार्थमभयं जगतः प्रियम् // तथा / मद्धर्माधारदेहानां यदुपग्रहकारणम् / आहारवस्त्रपात्रादि दीयतामिति भाषते // दौनान्धवपणेभ्यश्च दीयमानं कृपापरैः / आहारादिकमेननो वदनं न निषेधति // गवाश्वभूमिहेमानि यच्चान्यदपि तादृशम् / तनेच्छति गुणाभावाद्दीयमानमिदं मुखम् // सदाशयकरं वनमाग्रहच्छेदकारकम् / इदं जगति लोकानामनुकम्पाप्रवर्तकम् // For Private and Personal Use Only