________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / अकामनिर्जरापेक्षं जन्तुवीयं यदुत्कटम् / मिथ्यादृष्टविनाजानं तद्धि सात्त्विकमानमम् // ये तेन मयता लोका वास्तव्याम्ते प्रकीर्तिताः / त एव तत्प्रभावेण प्रयान्ति विबुधालये // धनपुत्रकलत्रादेः शरीरात्कर्मणस्तथा / अन्योऽहं भेदतो दुष्टा महामोहादिशत्रवः // अज्ञातजैनसिद्धान्ते कर्मनिर्जरणज्जने / या स्यादेवविधा बुद्धिः म विवेक दुहेव्यते // विवेकादप्रमत्तत्वं कषायादिनिवर्तने / यद्भवेल्लघुदोषाणां शिखरं तदुदाहृतम् // चतुर्वर्णमहासङ्घप्रमोदपरकारणम् ! दादशाङ्गं पुनर्जनं वचनं पुरमुच्यते // वास्तव्यका जनास्तत्र ये तदादेशकारिण: / त एव च चतुर्वर्णा यथोक्तगुणभूषणाः // एष एव च मारोऽत्र यथार्थो वरमण्डपः / यतः / विना चित्तसमाधानं पुरमेतन्न शोभते // बेदिका वासनं वेदं कथितं प्रकटाक्षरैः / यथार्थमेव विज्ञेयमिदं द्वितयमञ्जसा / ततो येन मया सर्वमिदं भावार्थसंयुतम् / बुद्धं मोऽहं नृपं मैन्यं भोत्स्ये नात्यत्र संशयः // ततश्च For Private and Personal Use Only