________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / श्रमी सकलकल्याणभाजिनो जैनसज्जनाः / निवेदिता मया तुभ्यमधुना श्टणु मण्डपम् // श्रयं चित्तसमाधानो मण्डपः सर्वदेहिनाम् / संप्राप्तः कुरुते सौख्यमतुलं निजवीर्यतः // अस्यैव भूपते नमास्थानार्थं विनिर्मितः / वेधमा चिजगहन्धोरादरादेष मण्डपः // नास्त्येव भवचक्रेत्र सुखगन्धोऽपि सुन्दर / यावच्चित्तसमाधानो नेष संप्राप्यते जनैः // तदेव लेशतो वत्म वर्णितो वरमण्डपः / एषा निःस्पृहता नाम वेदिका ते निवेद्यते // ये लोका वेदिकां वत्म स्मरन्येनां पुनः पुनः / तेषां शब्दादयो भोगाः प्रतिभान्ति विषोपमाः // न तेषु वर्तते चित्तं चौयते कर्मसञ्चयः / जायन्ते निर्मलत्वेन भवचक्रपराङ्मुखाः // येषामेषा स्थिता चित्ते धन्यानां वत्स वेदिका / नेन्द्र देवै! भूपैर्नान्यस्तेषां प्रयोजनम् // एषापि नूनमस्यैव निविष्टा वरभूपतेः / श्रास्थानाथं विधात्रेति वत्म सुन्दरवेदिका // दूयं निःस्पृहता तात वर्णिता ते सुवेदिका / जौववौर्यमिदं नाम साम्प्रतं श्टणु विष्टरम् // जौववौर्यमिदं येषां परिस्फुरति मानसे / सुखभेव परं तेषां दुःखानामुद्भवः कुतः // For Private and Personal Use Only